पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः।

३९

यदि प्रवृत्त्युन्नीयमानप्रत्ययविषयशब्दसामर्थ्यप्रतिप-

पत्तावनुगम्यमानं कार्यमपि सर्वशब्दसामर्थ्यविषयनियामक- त्वेन प्रयोजकं कल्प्येत, तर्हि सत्येव प्रमाणान्तरमितत्वादौ प्रयोगप्रत्ययाभ्यां सम्बन्धज्ञानाद्, असति चाज्ञानात्, तस्यापि सर्वशब्दसामर्थ्यविषयनियामकत्वं स्यात् । ननु प्रवृत्त्या प्रवर्तकज्ञानमनुमाय तत्रैव शब्दसामर्थ्यं प्रतिपद्यते, कुतः प्रमाणान्तरमेयत्वादेः प्रयोजकत्वावकाशः । सत्यम्, अस्मिन् प्रयोगे तथास्तु । किन्तु प्रयोगान्तरेषु भिन्नसंसर्गेष्वनुवर्तमानं प्रयोजकम् मृग्यते । ननु कार्यं । सर्वत्रानुवर्तते । सत्यम्, प्रमाणान्तरमेयत्वादेरप्यस्त्वनुवृत्तिः, अन्वयव्यतिरेकनियमात्। ननु प्रमाणान्तरमेयत्वादिःशब्दसामर्थ्यविषयो न भवतीति प्रागेव वर्णितं, तर्हि प्रमाणान्तरमितत्वाद्युपलक्षितकार्यसंसृष्टस्वार्थे सामर्थ्यमिति कल्प्यताम् । ननु शब्दसामर्थ्यविषयत्वे सति यदनुवर्तमानं तदेव प्रयोजकम् । तन्न , एवं विशेषणाद् वरमनुवर्तमानं प्रयोजकमिति ग्रहणम् । ननु मानान्तरप्रमितत्वाद्युपलक्षितकार्यान्वित इति ग्रहणाद् वरं कार्यान्वित इति ग्रहणम् । सत्यम्, ततोऽपि । लघीयोऽन्विते सामर्थ्यमिति ग्रहणम् । ननु प्रमाणान्तरमितत्वादेरन्वयव्यतिरेकौ तस्य सम्बन्धग्रहणोपायत्वेनान्यथासिद्धौ, अवगम्य विवक्षित्वा प्रयुक्ते शब्दे प्रवृत्त्या चानुमिते वाक्यार्थज्ञाने सम्बन्धावगमादन्यथा चानवगमात् । अतो न तस्य सर्वशब्द-


१. ‘दि', २. ‘तः' क. पाठः