पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३८

शाब्दनिर्णयः ।

‘यजेत स्वर्गकाम’ इति श्रौताद् वाक्यान्नापूर्वार्थप्रमि-

तिलाभः। यतो नियोज्यविषयाभिधायिनोः पदयोः सम्बन्धः ज्ञानकाले कार्यसंसृष्टो नियोज्यो विषयश्च सिद्धः । तत्र विषयनियोज्यव्यावृत्तेनियोगे शब्दोऽनुवादः स्यात् । न हि विषयनियोज्यसम्बन्धःशाब्दः , किन्त्वर्थनिबन्धनः । अन्यान्विते तूपलक्षणोपादानेन । धूमादग्निज्ञानवदपूर्वार्थप्रमितिर्युज्यते । स्यादेतत् । अनवगतस्यैव कार्यस्य सम्बन्धज्ञानविषयत्वान्न विषयनियोज्यव्यावृते कार्यशब्दोऽनुवाद इति । नैतत् सारं, यतोऽनवगते कार्ये तत्संसृष्टपदार्थान्तरानवगमादगृहीतसम्बन्धा एव सर्वेशब्दा बोधयेयुरिति प्रसज्येत,यतो नानवगतेऽर्थे सम्बन्धज्ञानम् । अथाज्ञादिषूपाधिषु कार्योऽप्यर्थ:प्रतिबिम्बितोऽवगम्यत इति , तथापि तत्स्वरूपसंसृष्टेषु सर्वपदार्थेषु सम्बन्धज्ञानाय प्रमाणान्तराधिगतेषु सिद्धं शब्दानामनुवाकत्वम् । अथ प्रवर्तकत्वं प्रमाणान्तरहीततया , शब्दार्थप्रवर्तकविशेषस्तु विषयनियोज्यव्यावृत्तो नियोगः प्रमीयत इति, तथापि शाब्दः संसर्गाऽनुवादः । विशेषस्तु परिशेषानुमानगोचर इति नापूर्वार्थप्रमितिलाभःतस्मादुपलक्षणोपादानेनान्विते सम्बन्धग्रहेऽपूर्वार्थसिद्धिः ॥ ४८॥

किञ्च

संसर्गप्रतियोगित्वम् नानुमेयस्य कृत्स्नतः।

प्रतिपत्त्यन्तरे मा भूदुपायत्वं समं तयोः ॥ ४९ ॥


१. ‘त्तेर्नि' , २. ‘ज्यः' क. पाठः ३. ‘र्व’ ख. ग. पाठः . ४.‘त अथा' क. पाठः ५. ‘पं’ ख. पाठः ६. त्वान्ना’ क. ग. पाठः