शाब्दनिर्णयः।
७
र्गोऽपि प्रतीयताम् । प्रतीत एवास्मिन्निदानीं पदानां पदावबुद्धानां वा पदार्थानां पदातिरिक्तस्य वा वाक्यस्य संसर्गावगमसामर्थ्यसंकथा । यतः सत्स्वपि पदादिष्वसति च विशिष्टवक्तृज्ञानावगमे संसर्गनिश्चयाभावात्, सति च तस्मिन् पदा1भावे संसर्गनिश्चयाभावादर्शनात् , तत एव तन्निश्चये सिद्धे कारणकारणतयान्यथासिद्धत्वात् पदादीनां न संसर्गसहका- रिकारणतापि सिध्येत् । तत्र कथं लोकसिद्धशक्तिसव्यपेक्षे वक्तृज्ञानविकले वेदे । विशिष्टस्तु वाक्यार्थ इति पदेभ्य एव संसर्गसिद्धिः । ननु शक्तिग्रहणकाले संसर्गे शक्तिरवगता । सत्यम्। प्रतिपत्तिकाले नासावुपयुज्यते, वक्तृज्ञानादेव संसर्गनिश्चयात्। अथवा तत्रापि प्रतिपत्तिकाले २ दृष्टेनैव न्यायेन संसर्गशक्तिग्रहोऽपि भ्रमः कल्प्येत । तस्मात् सामर्थ्यग्रहणानुसारेण शब्देभ्य एव संसर्गनिश्चयो वक्तव्यः । तत्र मानान्तरविरोधाद् यथाप्रयोगमनन्वितेषु पदार्थेषु तदभिधायिनां शब्दानामितरेतरान्वययोग्यविभक्तिसंबन्धितया संहत्यबुद्धौ सन्निधानं शब्दानां दोषः। ततो भ्रान्तिज्ञानम् । स च शब्दगतो दोषः प्रयोक्तृगतेनार्थविषयेण भ्रान्तिज्ञानेनोत्प्रेक्षाज्ञानेन वा जायते प्रयोगद्वारेणेत्यन्वयव्यतिरेकाभ्यामवगम्यते । तत्र वक्तृप्रमाणं तथाविधदोषनिराकरणमुखेनोपयुज्यते, न प्रमितिहेतुतया । पुरुषसंबन्धे सत्याशङ्कितदोषत्वान्नियमेन तदपेक्ष्यते । वेदे पुनरितरेतरान्वययोग्यविभक्तियुक्तपदसन्निधानबुद्धेस्तदर्थप्रवृ-
१. ‘दाद्यभा' ग. पाठः. २. ‘ल’ क पाठः. ३. ‘दे तु पु' ग. पाठः