पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/१०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

शाब्दनर्णयः ।

ततोऽप्यनुमानवैलक्षण्यम् । नन्वत एव बोधसामग्र्यभावाच्छब्दानामप्रामाण्यं स्यात् । न । धूमादग्निबुद्धाविव शब्देभ्योऽर्थप्रतिपत्तावर्थाविसंवाददर्शनात् । तथाच प्रयोगः—नानु- मानं शब्दः,प्रतिपत्तव्यसम्बन्धान्तरनिरपेक्षत्वे सत्यर्थबुद्धिसमर्थत्वात्, चक्षुर्वत्’ । तस्मादज्ञाततया स्वसामर्थ्यादेवावगमहेतुः प्रत्यक्षम् । त्रैरूप्योपेततया गृहीताद् बुद्धिरनुमानम् । तद्बुद्धिसमर्थतया गृहीताच्छब्दात् तत्र बुद्धिरागम इति प्रमाणान्तरत्वम् । तस्माद् युक्तं शब्दविज्ञानादिति ॥ ८ ॥ इदानीं मानान्तरसापेक्षत्वपक्षे निराकरणप्रकारमाह-

शब्दो मानान्तरापेक्षो वेदे लोके च नेष्यते ।

वक्तृमानं च शब्दस्य प्राप्तदोषापनोदि हि ॥ ९॥

वेदे तु मानान्तरानपेक्षत्वमपौरुषेयत्वप्रतिपादनेन वक्ष्यामः । पौरुषेये तु वक्तृज्ञानं क्वोपयुज्यतामिति विवेक्तव्यम्। यदि वाक्यार्थज्ञाने तत्प्रमितौ वेति मतं, तत्र न तावद् वक्तृज्ञानमनवगतमेव तदुभयं जनयति । प्रतिपत्तुर्बुद्धिद्वारेणापि तत्सम्बन्धाभावात् , कर्तृकरणयोश्च क्रियोत्पत्तौ संबन्धापेक्षत्वात्। अवगतं चेत्, कथमनवगतेऽप्रमिते चार्थे तद्व्यावृत्तं वक्तृज्ञानं गम्येत। नच निर्विषयमवगम्यमानं क्वचित् प्रमितिहेतुः । ननु पदेभ्योऽवबुध्यन्ते पदार्था: । सत्यम् । न तावन्मात्रे वक्तृज्ञानमपेक्ष्यते । तर्हि सामान्यतो दर्शनेनोत्प्रेक्षया वा संस-


१. ‘णभेदः । त’ , २. ‘तन्मा’ क. पाठः