पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५८

शाब्दनिर्णयः।

स्वर्गसाधनतामेव विशेषेणाभिदध्युः । नैमित्तिकादौ च कामश्रुतेरभावाद् निमित्तश्रुतेश्च नित्यान्वयात् कल्प्यमाननित्याभिलषित (प्रत्य)वायनिबर्हणसाधनत्वविशेषमेवाभिदध्युरिति श्लिष्यते ॥ ५८ ॥

अन्यथाकस्मिकार्थाः स्युर्वेदे कार्यार्थनिष्ठतः।

क्रियया न समन्वेति नियोज्यस्य विशेषणम्॥५९॥

अप्रकल्प्यमाने शब्दस्य हितसाधनसामर्थ्ये वेदे कार्यार्थत्वमात्रनिष्ठत्वात् फलसाधनतानवगमादाकस्मिकसुखदुःखप्रयोजना एवोत्पत्त्यैव सर्वे प्राणिनः प्रसज्येरन्। ननु नियोगसामर्थ्यादेव धात्वर्थस्य फलसाधनतावगम्यते । न । अनाप्तनियोगे नैमित्तिकादौ च व्यभिचारात् । न चानाप्तवाक्याद् विषयनियोज्यव्यावृत्तनियोगप्रमितौ प्रमाणान्तरविरोधः । साध्यसाधनसम्बन्धविरोधस्तु न शाब्दीर्नियोगप्रमितिं निरुणद्धि, अशाब्दत्वात् । आप्तनियोगे फलसाधनता स्यादिति । चेत् । न । वेदे तदभावादपौरुषेयत्वात् ।ननु कामिनः प्रवृत्त्युपदेशः कामोपायत्वे सति भवति। न, तत्साधनेऽपि फलकामनाया नियोज्यविशेषणत्वदर्शनात् । यथा ग्रा(मा?सा)दिकाप्तेष्वनेकेषु द्वारं प्रत्यासन्नेषु कश्चिद् भोजयिता विज्ञातेनैव विशेषणेन नियोज्यं विशिनष्ट्यन्येषां निवृतये ग्रा(म?स)काम! आगच्छेति। न तत्रागमनं ग्रा (म?स)साधनम्। ननु न तत्र ग्रा(म?स)कामना-


१. ‘ताषा' क.पाठः २. ‘न्निति ।’, ३. ‘त् । तस्याप्त' ख. ग. पाठः ४. ‘पाये भ', ५. ‘न’ क. पाठः