शाब्दनिर्णयः।
५७
सम्बन्धज्ञानायोगान्न शब्दानुमानगम्यः । न च प्रवृत्तिविषयतान्यथानुपपत्तिस्तद्गतकार्यार्थाधिगमनी । विषयविशेषप्रवृत्तेः१ फलप्रसवानुपपत्तिसिद्धाभिलषितसाधनविशेषनिबन्धनत्वसिद्धेरपूर्वपदार्थकल्पनायोगात् । अन्यथा फलानपेक्षायां क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिरिति न स्यात् । सत्यपि साधने फलाभिकाङ्क्षायां नियमाभावात् प्रवृत्त्यप्रवृत्ती युज्येते । ननु कार्यमपीच्छोपसंहारमुखेनैव प्रवर्तयतीति युज्यते२नियमः। न । तस्यानवगमे तदुपसंहारमुखेन प्रवर्तकत्वानवगमात्। फलं तु सुखं दुःखनिवृत्तिर्वा प्रत्यक्षमेव । तदाकारेच्छा नियमविकला३स्वानुभवसिद्धा । फलप्रसवान्यथानुपपत्त्या च तदनुकूलससाधनातिशयोऽप्यर्थापत्तिगम्य:४ । हितसाधनज्ञानानन्तरं च तदाकारवतीच्छा स्वानुभवगम्या । तदेवं हितसाधनमिच्छोपसंहारमुखेन प्रवर्तयति । अथ फलसाधनतैव कार्यता, नाम्नि विप्रतिपत्ति:। अथ फलेन कार्यमेव साधनतया कल्प्यते । न । प्रत्यक्षसिद्धपदार्थस्यैव साधनतासम्भवे पदार्थान्तरं साधनत्वं च कल्पयतः कल्पनागौरवात् । सिद्घघटादीनामप्यभिलषितक्रियासाधनत्वदर्शनात् । अत एव न कार्यत्वमेव साधनतेति न साधनतापह्नवः शक्यते कर्तुम् । अतो नार्थापत्त्या कार्यपदार्थावगमः । तस्मात् प्रमाणाभावात् प्रमेयाभवाच्च कार्यमितिप्रवर्तकाकारोऽभिनिवेशो राग एवेति सिद्धम् । अतो हितसाधनताभिधानमुखेन वेदेऽपि लिङादयः सन्निहितपदोपात्त-
१. ‘ते' , २. ‘ते । न’, ३. ‘ल', ४. ‘म्या।' ख. ग, पाठः