पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/६३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः।

५९

निबन्धना प्रवृत्तिः, किं तु भोजनकामनानिमित्तेत्यतत्साधनता । सत्यम् । इतरत्रापि तत्तुल्यं, न स्वर्गकामनानिमित्ता प्रवृत्तिः । किं तु नियोगनिमित्ता। अथ काम्येषु कामनिबन्धना भावार्थेषु प्रवृत्तिरिति तस्य कामोपायता सिध्येत् । न । इतरेतराश्रयात् ।कामनिमित्तप्रवृत्तिविषयत्वात् कामोपायतासिद्धिः, तदुपायत्वे च सिद्धे तन्निबन्धना तत्र प्रवृत्तिरिति । ननु स्वर्गादेः कामोपबन्धात् साध्यताप्रतीते: साधनाकाङ्क्षायां धात्वर्थः साधनत्वेन सम्बध्यते । न । गमनादेरपि तत्साधनताप्रसङ्गात् । अविहितत्वान्नेति चेद्, विहितं सम्बध्यत इति कुतः। फलसाधनाकाङ्क्षत्वात् । न । नित्यत्वादौ च व्यभिचारात् । नन्वस्ति तत्रापि प्रत्यवायपरिहारः फलम् । इहापि तर्हि यत्किञ्चित् फलं कल्प्यताम् । ननु साध्यस्वर्गे सन्निहिते कुतः फलान्तरावकाशः । उच्यते । सति ह्यन्यस्मिन् प्रमितिहेतावाकाङ्क्षासन्निधिसंसर्गेतिकर्तव्यतामनुभवतो न स्वयमेव संसर्गं प्रमिमीते । नेह प्रमितिहेतुरस्ति । नियोगो हि स्वसिद्धिमात्रनिष्ठो न विषयफलसम्बन्धमन्तरेणानुपपन्नः । नियोगोऽपि विहितस्य फलमन्तरेणानुपपन्नः, अन्यथा तत्र प्रवृत्त्ययोगादिति चेत् , तर्हि सत्यपि विधावभिलषितसाधनावगमादेव प्रवृत्तेः , स एव शब्दार्थतया विधिरिति किमन्तर्गडुना नियोगेन। पुरुषाभिप्रायभेदत्वाच्च न तस्य वेदे सम्भव इत्युक्तम् । ननु


१. 'मिषावि' क. पाठः