पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः ।

५३

स्याप्रधानं चेतनं प्रति प्रवर्तनालक्षणोऽभिप्रायभेदः प्रसिद्धः। स च बालस्य स्वतन्त्रप्रवृत्तौ । वेदे च कार्यबुद्धिं व्यभिचरति । तथाविधपुरुषसम्बन्धज्ञानाभावात् । नापि कृतिविषयीकारयोग्यतामात्रमवलम्बते । तस्याः कार्यबुद्धिगोचरेऽपि दुःखादौ विद्यमानत्वाद् व्यभिचारात् । नापि वर्तमानकृतिसंसृष्टमर्थमवलम्बते । कार्यबुद्ध्यधीनत्वात् कृत्युत्पत्तेः, कार्यबुद्धिसमये कृतिसंसर्गस्य व्यभिचारात्। न च निरुपाधिकसाध्यं कार्यम् । सुखादेरेव तदभावात् ,सोपाधिकसाध्येऽपि साधने कार्यबुद्धिदर्शनाच्च। न च सुखदुःखनिवृत्तिव्यतिरेकेण निरुपाधि(क)साध्यं नाम किञ्चिदस्ति । अथ कालविविक्तं कार्यबुद्धिरालम्बते । किं शब्दतोऽर्थतो वा कालविवेकः । शब्दतश्चेद् , घटादिश्रुतयोऽपि न कालसम्बन्धिनमर्थमभिदधतीति तदुत्पन्नबुद्धीनामपि कार्यबुद्धित्वप्रसङ्गः । अर्थतश्चेत्, शशविषाणबुद्धेरपि तत्प्रसङ्गः । तदेव हि तुच्छं यन्नाभूदस्ति भविष्यति । ननु कार्यमित्युक्ते कालसम्बन्धो न प्रतीयते, तथापि न तुच्छतावगतिः । सत्यम् । शब्दतः कालसम्बन्धानवगमो घटादिश्रुतिजन्यप्रतीतावपि तुल्य इत्युक्तम् । अर्थतः कालविवेकः केनावगम्यते । न कार्यबुद्ध्यैव, तस्यास्तावन्मात्रनिष्ठत्वात् । अथ सैव कालशून्यतामपि प्रतिपादयेत्, कस्येति न जानीमः। कार्यस्येति चेद्, न । तस्यैव निरूप्यमाणत्वात् । कालविविक्तोऽर्थः स इति चेत् । तर्हि तादृशोऽर्थः कालस्तुच्छं


१. ‘न’, २. न्धाभा’ ख. ग. पाठः. ३. र्गव्य’ क. पाठः ४. ‘त् । न’ ख. ग. पाठः. ५. ‘संसृष्टम’ क. पाठः