पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६
सुवर्णमालास्तुतिः ।


डम्बरमम्बुरुहामपि दलय-
 त्यनघं त्वदङ्घ्रियुगलं भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ २८ ॥

ढक्काक्षसूत्रशूलद्रुहिणक-
 रोटीसमुल्लसत्कर भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ २९ ॥

णाकारगर्भिणी चेच्छुभदा
 ते शरगतिनृणामिह भो
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ ३० ॥

तव मन्वतिसंजपतः सद्य-
 स्तरति नरो हि भवाब्धिं भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ ३१ ॥