पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५
सुवर्णमालास्तुतिः ।


झणुतकझङ्किणुझणुतत्किंटतक-
 शब्दैर्नटसि महानट भो ।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ २४ ॥

ज्ञानं विक्षेपावृतिरहितं
 कुरु मे गुरुस्त्वमेव विभो ।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ २५ ॥

टङ्कारस्तव धनुषो दलयति
 हृदयं द्विषामशनिरिव भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ॥ २६ ॥

ठाकृतिरिव तव माया बहिर-
 न्तः शून्यरूपिणी खलु भो।
साम्ब सदाशिव शंभो शंकर
 शरणं मे तव चरणयुगम् ।। २७ ।।