न्यस्तो मध्ये सभाया: परिसरविलसत्पादपीठाभिरामो
हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा।
व्रासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्री:
पीठः पीडाभरं न: शमयतु शिवयोः स्वैरसंवासयोग्यः ॥ १५ ॥
आसीनस्याधिपीठं त्रिजगदधिपतेरङ्घ्रिपीठानुषक्तौ
पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्मादिरेखौ ।
पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर-
श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ।। १६ ॥
यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु-
र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।
शंभोः संभावनीये पदकमलसमासङ्गतस्तुङ्गशोभे
माङ्गल्यं न: समग्रं सकलसुखकरे नूपुरे पूरयेताम् ।। १७ ॥
अङ्गे शृङ्गारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते
शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् ।
शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त-
त्संघातं चारु जङ्घायुगमखिलपतेरंहसां संहरेन्नः ॥ १८॥