पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१
शिवानन्दलहरी ।

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
 नटत्याशाशाखास्वटति झटिति स्वैरमभितः ।
कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं
 दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ २० ॥

धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां
 विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् ।
स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां
 जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ २१ ॥

प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे
 प्रवेशोद्युक्त: सन्भ्रमति बहुधा तस्करपते ।
इमं चेतश्चोरं कथमिह सहे शंकर विभो
 तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ २२ ॥

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
 विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति ।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षिमृगता-
 मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥ २३ ॥