सामग्री पर जाएँ

पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
शिवानन्दलहरी ।


विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर-
 श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।
विचारः को वा मां विशद कृपया पाति शिव ते
 कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ १६ ॥

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
 प्रसन्नेऽपि स्वामिन भवदमलपादाब्जयुगलम् ।
कथं पश्येयं मां स्थगयति नमःसंभ्रमजुषां
 निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः ॥ १७ ॥

त्वमेको लोकानां परमफलदो दिव्यपदवीं
 वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः ।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
 कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥ १८ ॥

दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके
 दुरन्ते संसारे दुरितनिलये दुःखजनके ।
मदायासं किं न व्यपनयसि कस्योपकृतये
 वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ १९ ॥