पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः ।।

॥ शिवानन्दलहरी ॥



कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः-
 फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ।
शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन-
 र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १ ॥

गलन्ती शंभो त्वच्चरितसरित: किल्बिषरजो
 दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् ।
दिशन्ती संसारभ्रमणपरितापोपशमनं
 वसन्ती मञ्चेतोह्रदभुवि शिवानन्दलहरी ॥ २ ॥

त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं
 जटाभारोदारं चलदुरगहारं मृगधरम् ।
महादेवं देवं मयि सदयभावं पशुपतिं
 चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३ ॥