पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५
शिवभुजंगम् ।

भुजंगप्रियाकल्प शंभो मयैवं
 भुजंगप्रयातेन वृत्तेन क्लृप्तम् ।
नरः स्तोत्रमेतत्पठित्वोरुभक्त्या
 सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४० ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

शिवभुजंगं संपूर्णम्