पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
शिवभुजंगम् ।

यदा पश्यतां मामसौ वेत्ति नास्मा-
 नयं श्वास एवेति वाचो भवेयुः ।
तदा भूतिभूषं भुजंगावनद्धं
 पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४ ॥

यदा यातनादेहसंदेहवाही
 भवेदात्मदेहे न मोहो महान्मे ।
तदा काशशीतांशुसंकाशमीश
 स्मरारे वपुस्ते नमस्ते स्मराणि ॥ २५ ॥

यदापारमच्छायमस्थानमद्भि-
 र्जनैर्वा विहीनं गमिष्यामि मार्गम् ।
तदा तं निरुन्धन्कृतान्तस्य मार्गं
 महादेव मह्यं मनोझं प्रयच्छ ॥ २६ ॥

यदा रौरवादि स्मरन्नेव भीत्या
 व्रजाम्यत्र मोहं महादेव घोरम् ।
तदा मामहो नाथ कस्तारयिष्य-
 त्यनाथं पराधीनमर्धेन्दुमौले ॥ २७ ॥