पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
शिवभुजंगम् ।

यदा कर्णरन्ध्रं व्रजेत्कालवाह-
 द्विषत्कण्ठघण्टाघणात्कारनादः ।
वृषाधीशमारुह्य देवौपवाह्यं
 तदा वत्स मा भीरिति प्रीणय त्वम् ॥ २० ॥

यदा दारुणाभाषणा भीषणा मे
 भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं
 कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ २१ ॥

यदा दुर्निवारव्यथोऽहं शयानो
 लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।
तदा जह्नुकन्याजलालंकृतं ते
 जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥

यदा पुत्रमित्रादयो मत्सकाशे
 रुदन्त्यस्य हा कीदृशीयं दशेति ।
तदा देवदेवेश गौरीश शंभो
 नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३ ॥