पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

॥ भवानीभुजंगम् ।।


षडाधारपङ्केरुहान्तर्विराज-
 त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
 सुधामूर्तिमीडे चिदानन्दरूपाम् ॥ १ ॥

ज्वलत्कोटिबालार्कभासारुणाङ्गीं
 सुलावण्यशृङ्गारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्ये विराज-
 त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ।। २ ।।

क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
 प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
 महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३ ॥