पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५६
गौरीदशकम् ।


यस्यामोतं प्रोतमशेष मणिमाला-
 सूत्रे यद्वत्क्वापि चरं चाप्यचरं च ।
तामध्यासज्ञानपदव्या गमनीयां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८ ॥

नानाकारैः शक्तिकदम्बैर्भुवनानि
 व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणीं तां कल्पलतामानतिभाजां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ।। ९ ।।

आशापाशक्लेशविनाशं विदधानां
 पादाम्भोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धाङ्गहरां तामभिरामां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १० ॥

प्रातःकाले भावविशुद्धः प्रणिधाना-
 द्भक्त्या नित्यं जल्पति गौरीदशकं यः ।
वाचां सिद्धिं संपदमग्र्यां शिवभक्तिं
 तस्यावश्यं पर्वतपुत्री विदधाति ॥ ११ ॥