पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५०
मन्त्रमातृकापुष्पमालास्तवः ।


लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे
 प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः
 स्नानं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ४ ॥

हींकाराङ्कितमन्त्रलक्षिततनो हेमाचलासंचितैः
 रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।
मुक्तासंततियज्ञसूत्रममलं सौवर्णतन्तूद्भवं
 दत्तं देवि धिया मयैतदखिलं संतुष्टये कल्पताम् ॥ ५ ॥

हंसैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां
 हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदे कङ्कणे ।
मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं
 नासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥ ६ ॥

सर्वाङ्गे धनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं
 कस्तूरीतिलकं च फालफलके गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं
 कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥७॥