सामग्री पर जाएँ

पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३०
देवीचतुःष्ट्युपचारपूजास्तोत्रम् ।


मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः
 कनककलिलघण्टाकिङ्किणीशोभिकण्ठः ।
श्रवणयुगलचञ्चच्चामरो मेघतुल्यो
 जननि तव मुदे स्यान्मत्तमातङ्ग एषः ॥ ४८ ॥

द्रुततरतुरगैर्विराजमानं
 मणिमयचक्रचतुष्टयेन युक्तम् ।
कनकमयममुं वितानवन्तं
 भगवति ते हि रथं समर्पयामि ॥ ४९ ॥

हयगजरथपत्तिशोभमानं
 दिशि दिशि दुन्दुभिमेघनादयुक्तम् ।
अतिबहु चतुरङ्गसैन्यमेत-
 द्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥

परिधीकृतसप्तसागरं
 बहुसंपत्सहितं मयाम्ब ते विपुलम् ।
प्रबलं धरणीतलाभिधं
 दृढदुर्गं निखिलं समर्पयामि ॥ ५१ ॥