पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


शतपत्रयुतैः स्वभावशीतै-
 रतिसौरभ्ययुतैः परागपीतैः ।
भ्रमरीमुखरीकृतैरनन्तै-
 र्व्यजनस्त्वां जगदम्ब बीजयामि ।। ५२ ॥

भ्रमरलुलितलोलकुन्तलाली-
 विगलितमाल्यविकीर्णरङ्गभूमिः ।
इयमतिरुचिरा नटी नटन्ती
 तव हृदये मुदमातनोतु मातः ॥ ५३ ।।

मुखनयनविलासलोलवेणी-
 विलसितनिर्जितलोलभृङ्गमालाः ।
युवजनसुखकारिचारुलीला
 भगवति ते पुरतो नटन्ति बालाः ।। ५४ ॥

भ्रमदलिकुलतुल्यालोलधम्मिल्लभारा:
 स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।
अनुपमितसुवेषा वारयोषा नटन्ति
 परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५ ॥