पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८४
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।


स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि ।
अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥ १०५ ।।

यः पठति स्तुतिमेतां
 विद्यावन्तं तमम्ब धनवन्तम् ।
कुरु देवि यशस्वन्तं
 वर्चस्वन्तं मनुष्येषु ॥ १०६ ।।

ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयका: ।
तेभ्यो देहि श्रियं विद्यामुद्वर्च उत्तनूबलम् ॥ १०७ ॥

त्वामेवाहं स्तौमि नित्यं प्रणौमि
 श्रीविद्येशां वच्मि संचिन्तयामि ।
अध्यास्ते या विश्वमाता विराजो
 हृत्पुण्डरीकं विरजं विशुद्धम् ।। १०८॥

शंकरेण रचितं स्तवोत्तमं
 यः पठेज्जगति भक्तिमान्नरः ।
तस्य सिद्धिरतुला भवेद्ध्रुवा
 सुन्दरी च सततं प्रसीदति ॥ १०९ ।।