पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सुब्रह्मण्यभुजंगम् ।

विधौ क्लृप्तदण्डान्स्वलीलाधृताण्डा-
 न्निरस्तेभशुण्डान्द्विषत्कालदण्डान् ।
हतेन्द्रारिषण्डाञ्जगत्त्राणशौण्डा-
 न्सदा ते प्रचण्डाञ्श्रये बाहुदण्डान् ॥ १२ ॥

सदा शारदाः षण्मृगाङ्का यदि स्युः
 समुद्यन्त एव स्थिताश्चेत्समन्तात् ।
सदा पूर्णबिम्बा: कलङ्कैश्च हीना-
 स्तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥ १३ ॥

स्फुरन्मन्दहासै: सहंसानि चञ्च-
 त्कटाक्षावलीभृङ्गसङ्घोज्ज्वलानि ।
सुधास्यन्दिबिम्बाधराणीशसूनो
 तवालोकये षण्मुखाम्भोरुहाणि ॥ १४ ॥

विशालेषु कर्णान्तदीर्घेष्वजस्रं
 दयास्यन्दिषु द्वादशस्वीक्षणेषु ।
मयीषत्कटाक्षः सकृत्पातितश्चे-
 द्भवेत्ते दयाशील का नाम हानिः ॥ १५ ॥