पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सुब्रह्मण्यभुजंगम् ।

लसत्स्वर्णगेहे नृणां कामदोहे
 सुमस्तोमसंछन्नमाणिक्यमञ्चे
समुद्यत्सहस्रार्कतुल्यप्रकाशं
 सदा भावये कार्तिकेयं सुरेशम् ॥ ८ ॥

रणद्धंसके मञ्जुलेऽत्यन्तशोणे
 मनोहारिलावण्यपीयूषपूर्णे।
मनःषट्पदो मे भवक्लेशतप्तः
 सदा मोदतां स्कन्द ते पादपद्मे ॥ ९ ॥

सुवर्णाभदिव्याम्बरैर्भासमानां
 क्वणत्किङ्किणीमेखलाशोभमानाम् ।
लसद्धेमपट्टेन विद्योतमानां
 कटिं भावये स्कन्द ते दीप्यमानाम् ॥ १० ॥

पुलिन्देशकन्याघनाभोगतुङ्ग-
 स्तनालिङ्गनासक्तकाश्मीररागम् ।
नमस्याम्यहं तारकारे तबोर:
 स्वभक्तावने सर्वदा सानुरागम् ॥ ११ ॥