पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्


॥श्रीः॥

॥ आनन्दलहरी ॥


भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
 प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति-
 स्तदान्येषां केषां कथय कथमस्मिन्नवसरः ।। १ ॥

घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदै-
 विशिष्यानाख्येयो भवति रसनामात्रविषयः ।
तथा ते सौन्दर्ये परमशिवदृङ्मात्रविषयः
 कथंकारं ब्रूमः सकलनिगमागोचरगुणे ।। २ ॥

मुखे ते ताम्बूलं नयनयुगले कज्जलकला
 ललाटे काश्मीरं विलसति गले मौक्तिकलता ।
स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी
 भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ।। ३ ॥