पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६०
आनन्दलहरी।

विराजन्मन्दारद्रुमकुसुमहारस्तनतटी-
 नदद्वीणानादश्रवणविलसत्कुण्डलगुणा ।
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
 सती शंभोरम्भोरुहचटुलचक्षुर्विजयते ।। ४ ।।

नवीनार्कभ्राजन्मणिकनकभूषापरिकरै-
 र्वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा ।
तटित्पीता पीताम्बरललितमञ्जीरसुभगा
 ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५ ॥

हिमाद्रेः संभूता सुललितकरैः पल्लवयुता
 सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
 रुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६ ॥

सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
 श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
 पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७ ॥