पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४०
सौन्दर्यलहरी ।


सरस्वत्या: सूक्तीरमृतलहरीकौशलहरी:
 पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
 झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६० ॥

असौं नासावंशस्तुहिनगिरिवंशध्वजपटि
 त्वदीयो नेदीयः फलतु फलमस्माकमुचितम ।
वहत्यन्तर्मुक्ता: शिशिरकरनिश्वासगलितं
 समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१ ॥

प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचे:
 प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं तद्विम्बप्रतिफलनरागादरुणितं
 तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२ ॥

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
 चकोराणामासीदतिरसतया चञ्चुजडिमा ।
अतस्ते शीतांशोरमृतलहरीमाम्लरुचय:
 पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्जिकधिया ॥ ६३ ॥