पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३९
सौन्दर्यलहरी ।


तवापर्णे कर्णेजपनयनपैशुन्यचकिता
 निलीयन्ते तोये नियतमनिमेषा: शफरिकाः ।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं
 जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥

दृशा द्राधीयस्या दरदलितनीलोत्पलरुचा
 दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
 वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥

अरालं ते पालीयुगलमगराजन्यतनये
 न केषामाधत्ते कुसुमशरकोदण्डकुतुकम ।
तिरश्चीनो यत्र श्रवणपथमुल्लङ्घय विलस-
 न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८ ॥

स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
 चतुश्चक्रं मन्ये तव सुखमिदं मन्मथरथम् ।
यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं
 महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥