पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्याः करपद्मलालितपदं मृत्युंजयं भावये।।४४।।

चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै-
र्मनःपद्मे भक्त्या बहिरपि च पूजां शुभकरीम्।
करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा-
न्प्रयाति श्रीमृत्युंजयपदमनेकाद्भुतपदम्।।४५।।
 
प्रातर्लिङ्गमुमापतेरहरहः संदर्शनात्स्वर्गदं
मध्याह्ने हयमेघतुल्यफलदं सायंतने मोक्षदम्।
भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं

तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम्।।४६।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
श्रीमृत्युञ्जयमानसिकपूजास्तोत्रं सम्पूर्णम्।।