पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
गणेशभुजंगम् ।


विचित्रस्फुरद्रत्नमालाकिरीटं
 किरीटोल्लसञ्चन्द्ररेखाविभूषम् ।
विभूषैकभूषं भवध्वंसहेतुं
 गणाधीशमीशानसूनुं तमीडे ॥ ४ ॥

उदञ्चद्भुजावल्लरीदृश्यमूलो-
 च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् ।
मरुत्सुन्दरीचामरैः सेव्यमानं
 गणाधीशमीशानसूनुं तमीडे ॥ ५ ॥

स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं
 कृपाकोमलोदारलीलावतारम् ।
कलाबिन्दुगं गीयते योगिवर्यै-
 र्गणाधीशमीशानसूनुं तमीडे ॥ ६ ॥

यमेकाक्षरं निर्मलं निर्विकल्पं
 गुणातीतमानन्दमाकारशून्यम् ।
परं पारमोंकारमाम्नायगर्भं
 वदन्ति प्रगल्भं पुराणं तमीडे ॥ ७ ॥