पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

॥ गणेशभुजंगम् ॥


रणत्क्षुद्रघण्टानिनादाभिरामं
 चलत्ताण्डवोद्दण्डवत्पद्मतालम् ।
लसत्तुन्दिलाङ्गोपरिव्यालहारं
 गणाधीशमीशानसूनुं तमीडे ॥ १ ॥

ध्वनिध्वंसवीणालयोल्लासिवक्त्रं
 स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् ।
गलद्दर्पसौगन्ध्यलोलालिमालं
 गणाधीशमीशानसूनुं तमीडे ॥ २ ॥

प्रकाशज्जपारत्करत्नप्रसून-
 प्रवालप्रभातारुणज्योतिरेकम् ।
प्रलम्बोदरं वक्रतुण्डैकदन्तं
 गणाधीशमीशानसूनुं तमीडे ॥ ३ ॥