पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४
श्रीदक्षिणामूर्त्यष्टकम् ।


विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
 शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामित-
 स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८ ॥

भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा-
 नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम ।
नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभो-
 स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।। ९ ॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे
 तेनास्य श्रवणात्तदर्थमननाद्धयानाञ्च संकीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
 सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
श्रीदक्षिणामूर्त्यष्टकम् संपूर्णम् ॥