पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥

श्रीमृत्युंजयमानसिकपूजास्तोत्रम् ॥

कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं
 कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् ।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
 कण्ठालंकृतशेषभूषणममुं मृत्युंजयं भावये ॥ १ ॥
 
आगत्य मृत्युंजय चन्द्रमौले
 व्याघ्राजिनालंकृत शूलपाणे ।
स्वभक्तसंरक्षणकामधेनो
 प्रसीद विश्वेश्वर पार्वतीश ॥२॥

भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालंकृते
 सौधे धूपसुवासिते मणिमये माणिक्यदीपाञ्चिते।