पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
left
५५
हरिस्तुतिः ।


तावत्सर्वं सत्यमिवाभाति यदेत-
 द्यावत्सोऽस्मीत्यात्मनि यो ज्ञो न दृष्टः ।
दृष्टे यस्मिन्सर्वमसत्यं भवतीदं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ४० ॥

रागामुक्तं लोहयुतं हेम यथाग्नौ
 योगाष्टाङ्गैरुज्ज्वलितज्ञानमयाग्नौ ।
दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ११ ॥

यं विज्ञानज्योतिषमाद्यं सुविभान्तं
 हृद्यर्केन्द्वग्न्योकसमीड्यं तटिदाभम् ।
भक्त्याराध्येहैव विशन्त्यात्मनि सन्तं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ४२ ॥

पायाद्भक्तं स्वात्मनि सन्तं पुरुषं यो
 भक्त्या स्तौतीत्याङ्गिरसं विष्णुरिमं माम ।
इत्यात्मानं स्वात्मनि संहृत्य सदैक-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४३ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ हरिस्तुतिः सपूर्णा ॥