पुटमेतत् सुपुष्टितम्
५४
हरिस्तुतिः ।
नाहं प्राणो नैव शरीरं न मनोऽहं
नाहं बुद्धिर्नाहमहङ्कारधियौ च ।
योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३६ ॥
सत्तामात्रं केवलविज्ञानमजं स-
त्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।
साम्नामन्ते प्राह पिता यं विभुमाद्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३७ ॥
मूर्तामूर्ते पूर्वमपाह्याथ समाधौ
दृश्यं सर्वं नेति च नेतीति विहाय ।
चैतन्यांशे स्वात्मनि सन्तं च विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे ॥ ३८॥
ओतं प्रोतं यत्र च सर्वं गगनान्तं
योऽस्थूलानण्वादिषु सिद्धोऽक्षरसञ्ज्ञः ।
ज्ञाताऽतोऽन्यो नेत्युपलभ्यो न च वेद्य
स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ३९ ॥