पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
हरिस्तुति ।


यस्मादन्यन्नास्त्यपि नैवं परमार्थं
 दृश्यादन्यो निर्विषयज्ञानमयत्वात् ।
ज्ञातृज्ञानज्ञेयविहीनोऽपि सदा ज्ञ-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ४ ॥

आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वा
 वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना |
भक्त्यैकाम्यध्यानपरा यं विदुरीशं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ५ ॥

प्राणानायम्योमिति चित्तं हृदि रुध्वा
 नान्यत्स्मृत्वा तत्पुनरत्रैव विलाप्य ।
क्षीणे चित्ते भादृशिरस्मीति विदुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ६ ॥

यं ब्रह्माख्यं देवमनन्यं परिपूर्णं
 हृत्स्थं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।
ध्यात्वात्मस्थं ब्रह्मविदो यं विदुरीशं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ७ ॥