पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
हरिस्तुतिः ।

मात्रातीतं स्वात्मविकासात्मविबोधं
 ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य ।
भावग्राह्यानन्दमनन्यं च विदुर्यं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ८ ॥

यद्यद्वेद्यं वस्तुसतत्त्वं विषयाख्यं
 तत्तद्ब्रह्मैवेति विदित्वा तदहं च ।
ध्यायन्त्येवं यं सनकाद्या मुनयोऽजं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ ९ ॥

यद्यद्वेद्यं तत्तदहं नेति विहाय
 स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य ।
तस्मिन्नस्मीत्यात्मविदो यं विदुरीशं
 तं संसारध्वान्तविनाशं हरिमीडे ॥ १० ॥

हित्वा हित्वा दृश्यमशेषं सविकल्पं
 मत्वा शिष्टं भादृशिमात्रं गगनाभम् |
त्यक्त्वा देहं यं प्रविशन्त्यच्युतभक्ता-
 स्तं संसारध्वान्तविनाशं हरिमीडे ॥ ११ ॥