पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीमाण्यम् ।

ह्रींकारवेदोपनिषत् । वेद्यन्ते ज्ञायन्ते सर्वे पदार्था अनेनेति वेद । जात्येकवचनम् । ह्रींकार एव वेद । ज्ञापकत्वाविशेषात् । तस्य उपनिषद्वेदान्तभाग लक्ष्यार्थो वा, तत् ब्रह्मोपनिषत्परमिति श्रुत । कर्मोपासनाज्ञानकाण्डभेदेन चत्वाराऽपि वेदा त्रिप्रकारा । 'तमेत वेदानुवचनेन ब्राह्मणा विविदिषन्ति' इति वाक्येन ज्ञानसाधनतया कर्मोपासनयो विनियुक्तत्वात् , 'अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रता ' इति श्रुत्या तदुभयो संसारफलकत्वेन निन्दितत्वाच्च, आत्मानं चेद्विजानीयादयमस्मीति पुरुष । किमिच्छन् कस्य कामाय शरीरमनुसज्वरेत' ' आत्मकाम आप्तकाम' इत्यादिश्रुतिभ्य अद्वैतज्ञानोत्पादकवेदभागस्योपनिषच्छब्दवाच्यस्य मोक्षफलकत्वेनफलप्रतिपादनात्तदुभयप्रतिपादकवदभागापेक्षया श्रेष्ठत्वम् , लोके साधनापेक्षया फलस्य श्रेष्ठत्वेनोत्तमत्त्वप्रसिद्धे । तथा च पूर्वकाण्डद्वयार्थस्य जन्यतया तत्प्रतिपादकवेदभागस्योपनिषन्छेषत्ववत् ह्रींकारस्यापि परदेवताप्रकाशकत्येन तच्छेषत्वात्तस्या प्राधान्यमुक्तमिति द्रष्टव्यम् । वेदान्तेषूपनिषच्छब्द तज्जन्यतारूपशक्यसबन्धेन प्रवर्तते । मुख्यया वृत्त्या तु ब्रह्मविद्यायामेव । तथाहि-उप