पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम।

रूयत्वाभाववत्त्वेऽपि पार्थिवत्ववदत्र पार्थिवत्वे बाधाभावात् । द्रवत्वस्यादकस्वभावत्वेन तत्कायपृथिव्यामपि उपलम्भोपपत्तेश्च । तद्विकार , सौवणश्रासौ स्तम्भश्च । सौवर्णस्तम्भस्य नवरत्नमण्डपभाररवाहित्वे सति तदभिन्नत्वेन तदलंकारभूतत्वस्येव साधर्म्यस्य ह्रींकारेऽपि जगदाश्रयत्वे सति तत्कारणत्वे सति तदन्तर्भूतत्वे सति परमानन्दजनकत्वस्य सत्त्वेन ह्रींकारमय इत्यभेदोपचार प्रदीपालकारद्योतनार्थ इति ज्ञातव्यम् । ह्रींकारे उपमेये मयशब्देनोपमानाभेदकल्पनात् । तस्मिन्त्रिचित्रपिङ्गप्रधानरूपे तत्सबन्धितया विद्रुमपुत्रिकेव प्रतीयमाना विद्रुमन प्रवालन कृता पुत्रिका सालभञ्जिका । सौवर्णस्तम्भशब्द उपलक्षण भित्त्यादीनाम् , प्रायस्त्वदर्शनात् तदुपादान स्वत मनोज्ञस्य स्तम्भस्यातिशयदर्शनीयतायै । दुर्लभतरप्रवालपुत्रिका स्तम्भमण्डप तत्स्वामिन तद्दश च प्रकृष्टीकरोति तथा श्रीपरदेवतापि रूढ्यैतद्बीजार्थतया तदवच्छिन्ना सती तदादीन् सर्वान् भूषयति सफलीकरोतीत्यर्थः ॥ ॐ ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नमः। ह्रींकारवेदोपनिषद्ध्रींकाराध्वरदक्षिणा । ह्रींकारनन्दनारामनवकल्पकवल्लरी ॥ ८७ ॥