पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाध्यम् । नित्यतृप्तस्वरूपा शक्तिः , परदेवत्तात्मकतया तं करोतीति तथा ।। ॐ कामेश्वरालादकर्यै नमः ॥ कामेश्वरमहेश्वरी । महती च सा ईश्वरी निरुपाधिकैश्वर्यवती, 'महान्प्रभुर्वै पुरुष ' इति श्रुतेः । कामेश्वरस्य महदैश्वर्यम् अस्या सन्तीति तथा , भगवतीत्यर्थः । ऐश्वर्यस्य समग्रस्य वीर्यस्य यशस श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा 'तमीश्वराणां परमं महेश्वरम्' इति श्रुतेः ॥ ॐ कामेश्वरमहेश्वर्यै नमः॥ कामेश्वरी । मन्मथापासितकादिविद्यारूपेत्यर्थः ॥ ॐ कामेश्वर्यै नमः ।। कामकोटिनिलया। षण्णवतिपीठेषु मध्ये कामकाटिः श्रीचक्रमित्यर्थः । निलयं गृहं यस्या सा तथा ।। ॐ कामकोटिनिलयायै नमः ॥ काङ्क्षितार्थदा । काङ्क्षितान् काङ्क्षाविषयीभूतान्, प्राप्तसजातीयेच्छा काङ्क्षा, तद्गोचरान् पदार्थान् ददातीति तथा। काङ्क्षिता सती उपास्यदेवता मे प्रसन्ना भूयादितीच्छया चिरकालोपासिता सती पुरुषार्थान् अप्रार्थयमानस्यापि स्वयमेव ददातीत्यर्थः ।। ॐ काङ्क्षितार्थदायै नमः ॥