पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ललितात्रिशतीभाष्यम् । सती आवां दपती-इति द्विप्रकारकज्ञानवन्तं करोतीति सा तथा । अभेदज्ञानवतः तद्विपरीतज्ञानवत्वं मोहः तत्करोतीति सा तथा । अथवा, मोहो नाम बुद्धरेकालम्बनतया तदन्याविषयकत्वम् परमेश्वरस्य स्वस्वरूपपरदेवतापरमानन्दसाक्षात्कारेण स्थाणुवन्निश्चलतया उपचारेण मोहवत्तया तदितरप्रपञ्चाकारकृत्याद्याश्रयतादर्शनेन मोहयतीत्युपचारनाम । मोहयतीवेत्यर्थः । अन्तःपुरगतं राजानं स्त्रियासक्तमितिवदित्यर्थः ॥ ॐ कामेश्वरविमोहिन्यै नमं ।। कामेश्वरब्रह्मविद्या । कामेश्वरस्य तत्त्वपदार्थसाक्षात्कारभूतेत्यर्थः , 'यः साक्षादपरोक्षाब्रह्म' इति श्रुतेः ॥ ॐ कामेश्वरब्रह्मविद्यायै नमः ॥ कामेश्वरगृहेश्वरी । गृह्यत इति ग्रह सर्वज्ञानम् तस्य ईश्वरी विषयाधिष्ठानभूतत्वेन नियामिकेत्यर्थः । अथवा, 'गृहिणी गृहमुच्यते' इति न्यायात् कामेश्वर गृहेश्वर स्वस्याधिपति अस्या अस्तीति सा तथा ॥ कामेश्वरगृहेश्वर्यै नमः।। कामेश्वराह्लादकरी कामेश्वरमहेश्वरी। कामेश्वरी कामकोटिनिलया काङ्क्षितार्थदा ॥ कामेश्वराह्लादकरी । आह्लादः तृप्तिजन्यसुखं परमेश्वरस्य