पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥

॥ श्रीरामभुजंगप्रयातस्तोत्रम् ॥

विशुद्धं परं सच्चिदानन्दरूपं
 गुणाधारमाधारहीनं वरेण्यम् ।
महान्तं विभान्तं गुहान्तं गुणान्तं
 सुखान्तं स्वयं धाम रामं प्रपद्ये ॥ १ ॥

शिवं नित्यमेकं विभुं तारकाख्यं
 सुखाकारमाकारशून्यं सुमान्यम् ।
महेशं कलेशं सुरेशं परेशं
 नरेशं निरीशं महीशं प्रपद्ये ॥ २ ॥

यदावर्णयत्कर्णमूलेऽन्तकाले
 शिवो राम रामेति रामेति काश्याम् ।
तदेकं परं तारकब्रह्मरूपं
 भजेऽहं भजेऽहं भजेऽहं भजेऽहम् ॥ ३ ॥