पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
हनुमत्पञ्चरत्नम् ।

दूरीकृतसीतार्तिः
 प्रकटीकृतरामवैभवस्फूर्तिः ।
दारितदशमुखकीर्तिः
 पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥

वानरनिकराध्यक्षं
 दानवकुलकुमुदरविकरसदृशम् ।
दीनजनावनदीक्षं
 पवनतपः पाकपुञ्जमद्राक्षम् ॥ ५ ॥

एतत्पवनसुतस्य
 स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।
चिरमिह निखिलान्भोगा-
 न्भुक्त्वा श्रीरामभक्तिभाग्भवति ॥ ६ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
हनुमत्पञ्चरत्नं सपूर्णम् ॥