पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (द्वितीयः भागः).pdf/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्री ॥
॥ जगन्नाथाष्टकम् ॥


कदाचित्कालिन्दीतटविपिनसगीतकवरो
मुदा गापीनारीवदनकमलास्वादमधुप ।
रमाशभुब्रह्मामरपतिगणशार्चितपदो
जगन्नाथ स्वामी नयनपथगामा भवतु मे ॥१॥

भुजे सव्ये वेणु शिरसि शिखिपिञ्छ कटितटे
दुकूल नेत्रान्त सहचरकटाक्ष विदधत् ।
सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ २ ॥

महाम्भोधेस्तीरे कनकरुचिर नीलशिखरे
वस्रन्प्रासादान्त सहजबलभद्रेण बलिना ।
सुभद्रामध्यस्थ सकलसुरसेवावसरदो
जगन्नाथ स्वामी नयनपथगामी भवतु मे ॥ ३ ॥