पृष्ठम्:शङ्करविजयः.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
53
पञ्चमस्सर्गः

उपात्तभिक्षः परितुष्टचित्तः प्रदर्शयामास स भाष्यमस्मै ।
सर्वो निबन्धो ह्यमलोऽषि लोके शिष्टेक्षितस्सञ्चरणं प्रयाति ॥ १२ ॥

दृष्ट्वा भाष्यं हृष्टचेताः कुमारः 1प्रोचे वाचं शङ्करं देशिकेन्द्रम् ।
लोके ह्यलवो मत्सर 2ग्रासशाली सर्वज्ञौ तौ नाल्पभावस्य पात्रम् ॥ १३ ॥

अष्टौ सहस्राणि विभान्ति 3विद्वन्
सद्वार्तिकानं प्रथमेऽत्र भाष्ये ।
अहं यदि स्यामगृहतदीक्षो
ध्रुवं विधास्ये सुनिबन्धमस्य ॥ १४ ॥

भवादृशां दर्शनमेव लोके
विशेषतोऽस्मिन्समये दुरापम् ।
पुरार्जितैः पुण्यचयैः कथञ्चित्
त्वमद्य मे दृष्टिपथं 4गतोऽसि ॥ १५ ॥

असारसंसारपयोधिमध्ये
5निमज्जतां सद्भिरुदारवृत्तेः ।
भवादृशैस्सङ्गतिरेव साध्या
नान्यस्तदुत्तारविधावुपाय ॥ १६ ॥

चिरं दिदृक्षे भगवन्तमीड्यं
त्वमेव दैवेन समागतोऽभूः ।
न ह्यत्र संसारपथे नराणां
स्वेच्छाविधेयोऽभिमतेन योगः ॥ १७ ॥

युनार्क्त​ कालः क्वचिदिष्टवस्तुना
क्वचिच्वनिष्टेन​ च नीचवस्तुना ।


1का प्रोवाचैवं । 2अ. ग्राम ।

3अ. यद्वत् । 4अ. गताेऽभूः

5अ. निमज्जता ।