उक्ष्णा निसर्गधवलेन महयसा 1सा
चात्मानमैक्षत समूढमुपात्तनिद्रा ।
सङ्गीयमानमपि गीतविशारदाद्यै-
र्विद्याधरप्रभृतिभिर्विनयोपयातैः ॥ १७ ॥
2आकर्णयन् जय जयेति वरं दधाना
रक्षेतिशब्दमवलोकय मादृशेति ।
3आकर्ण्य नोत्थितवती पुनरुक्तशब्दं
सा विस्मिता किल शृणोति निरीक्षमाणा ? ॥ १८ ॥
मानुष्यधर्ममनुसृत्य मयैतदुक्तं
काऽपि व्यथा शिवमहोधरणेन वध्वाः ।
सर्वव्यथास्यतिकरं 4प्रतिकर्तुकामाः
देवं भजन्त इति तच्वविदां प्रवादः ॥ १९ ॥
लग्ने शुभे शुमयुते सुषुवे कुमारं
श्रीपार्वतीव सुखिनी शुभवीक्षिते च ।
जाया सती शिवगुरोर्निजतुङ्गसंस्थे
सूर्ये कुजे रवियुते च गुरौ च केन्द्रे ॥ २० ॥
दृष्ट्वा सुतं शिवगुरुः शिववारिराशौ
मग्नोऽपि धर्ममनुसृत्य जले न्यमाङ्क्षीत् ।
5व्यश्राणयत् बहुधनं वसुधाञ्च गाश्च
जन्मोक्तकर्म विदधे द्विजपुङ्गवेभ्यः ॥ २१ ॥
तस्मिन्दिने मृगतरक्षुकरीन्द्रसिह्म-
सर्पाखुमुख्यवहुजन्तुगणा द्विषन्तः ।
वैरं विहाय सह चेरुरतीव हृष्टाः
कण्डूमपाकृषत साधु मिथो निघुष्टाः ॥ २२ ॥
1अ. असावात्मान । 2अ. आकर्णयत् ।
3अ. आकर्णितोत्थितवती । 4अ. परिहर्तु ।
5का. विश्राणयन् ।