पृष्ठम्:शङ्करविजयः.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
34
शङ्करविजये

देवोऽप्यपृच्छदथ तं द्विजसिद्ध​ सत्यं
सर्वज्ञमेकमपि सर्वगुणोपपन्नम् ।
पुत्रं ददन्यथ बहून् विपरीतकांस्ते
भूयोयुषस्तनु 1गुणानव​दद्द्विजेशः ॥ ६ ॥

पुन्नोऽस्तु मे बहुगुणः प्राथितानुभावः
सर्वज्ञतापदमितीरित आबभाषे ।
दद्यामुदीरितपदं तनयं तपो मा
पूर्णो भविष्यसि गृहं द्विज गच्छ दारैः ॥ ७ ॥

आकर्णयन्निति बुबोध स विप्रवर्य-
स्तञ्चाब्रवीन्निजकलत्रमनिन्दितात्मा ।
स्वप्नं शशंस 2वनितामणिरस्य भार्या
सत्यं भविष्यति तु नौ तनयो महात्मा ॥ ८ ॥

तौ दम्पती शिवपरौ नियतौ स्मरन्तौ
स्वप्नेक्षितै गृहगतौ बहुदक्षिणान्नैः ।
सन्तर्प्य​ विप्रनिकरं तदुदीरिताभि-
राशीर्भिरापतुरनल्पमुदं विशुद्धौ ॥ ९ ॥

तस्मिन्दिने शिवगुरोरुपयोक्ष्यमाणे
भक्ते प्रविष्टमभवत्किल शैवतेजः ।
मुक्तान्नविप्रवचनादुपयुज्य​3 शेषं
सोऽभुङ्क सापि निजभर्तृपदाब्जभृङ्गी ॥ १० ॥

गर्भं दधार शिवगर्भ​मसौ मृगाक्षी
गर्भोऽप्यवर्धत शनैरभवच्छरीरम् ।
4तेजोविशेषविनिपातितदृष्टिपातं
विश्वं रवेदिवसमद्य इवोग्रतेजः ॥ ११ ॥


1का. गुणान्वद तद्दिजेश । 2का. मुदितास्य ।

3अ. उपयुक्तशेषं ।

4अ. तेजोऽतिरेकविनिवारित ।; का. तेजोऽतिरेकविनिवर्तित ।