पृष्ठम्:शङ्करविजयः.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
204
शङ्करविजये

निवेदिते कामकलारहस्ये
विद्यासु सर्वासु समीक्षितासु ।
सर्वज्ञपीठं निविविक्षमाणे
तस्मिन्नभाषिष्ट च वागधींशा ॥ ७८ ॥

शुद्धाः कुलीना विदिताखिलार्थाः
पीठं समारोढुमिदं प्रशस्तम् ।
योग्या न योग्या इतरेऽप्रशस्ता
स्तिष्ठ क्षणं त्वं कुरु साहसं मा ॥ ७९ ॥

त्वञ्चाङ्गनास्समुपभुज्य कलारहस्य-
प्रावीण्यभाजनमुमूभूर्यतिधर्मनिष्ठः ।
आरोढुमीदृशपदं कथमर्हसि त्वं
सर्वज्ञतेव​ विमलत्वमपीह हेतुः ॥ ८० ॥

नास्मिन् शरीरे कृतकिल्बिषोऽहं
जन्म प्रभृत्यम्ब न संशयोऽत्र ।
व्यधायि देहान्तरसंश्रयाद्य
न्न तेन लिप्येत हि कर्मणान्यत् ॥ ८१ ॥

एवं निरुत्तरपदां स विधाय देवीं
सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः ।
मात्रा गिरामपि तथा पुरुषैश्च सभ्यै-
स्संभावितो रुचितदेशमयं जगाम ॥ ८२ ॥

एकश्शाखी शङ्कराख्यश्चतुर्धा
स्थानं भेजे पापशान्त्यै जनानाम् ।
शिष्यैः स्कन्धैश्शिष्य​शाखैर्महद्भि-
र्ज्ञानं पुष्पं यत्र मोक्षप्रसृतिः ॥ ८३ ॥