पृष्ठम्:शङ्करविजयः.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
168
शङ्करविजये

धन्यो लुलय​महिषीगण एत्य सम्यक्
संसेव्य वृष्टिमदिरां मुमुदे मदान्धम् ।
व्यस्मारि गेहमटता बहुशष्पकक्षं
तस्माद्व​नान्तरमियाय निषेव​माणः ॥ १८ ॥

सन्मार्गवत्कलियुगे पथिभिः प्रणेशे
दुष्टैः खलैरिव तृणैर्वितनै सरिद्भिः ।
हंसेषु मानसगतेषु बकौघमाला
मोदं जगाम सुजनै रहितः ख​लो वा ॥ १९ ॥

1दीर्घाङ्घि्रिकप्रणयिलोलकवल्ल​री सा
गर्भं द​धार कुसुमं फलसृनुहेतम् ।
या सूयते फलतनूजमविघ्नभावे
मासे सहस्य​विदिते प्रथितात्मशक्तिः ॥ २० ॥

फुल्लारविन्दनयना विमलाम्बराढ्या
मेघावरोधनवरग्रहणादिमुक्ता ।
श्रीरामसूर्यपरिशोषितदुःस्वपङ्का
सीतेव सा शरदियं ददृशे मनुष्यैः ॥ २१ ॥

काशैः क्षितिर्धवलदीप्तिभिरुञ्चकाशि
सच्चामरैस्वि दशाकरिणी तथैव !
मेधैर्विमुक्तममलं गानञ्च​ शुभ्रैः
स्तारागणैरध​रितोज्वलमौक्ति2कोघैः ॥ २२ ॥

अम्भाेभिरुज्झितमलैर्मुनिमानसानां
धिक्कारदैर्नद​नदीसरसीतठाकाः ।
संरेजिरे विकचवारिरुहैस्समन्तात्
सौरभ्यलुब्घबहुगायिमधुव्र​तश्चै ॥ २३ ॥


1क. दीर्घाडूघ्रिप । 2का. काभैः ।